top of page
Search
Writer's pictureanshupriya81

Devi Kavach for Protection

ॐ अस्य श्रीचण्डीकवचस्य ब्रह्मा ऋषिः, अनुष्टुप् छन्दः, 

चामुण्डा देवता, अङ्गन्यासोक्तमातरो बीजम्, दिग्बन्धदेवतास्तत्त्वम्, 

श्रीजगदम्बाप्रीत्यर्थे सप्तशतीपाठाङ्गत्वेन जपे विनियोगः।

ॐ नमश्‍चण्डिकायै॥

मार्कण्डेय उवाच

यद्‌गुह्यं परमं लोके सर्वरक्षाकरं नृणाम् ।यन्न कस्यचिदाख्यातं तन्मे ब्रूहि पितामह ॥ १ ॥

ब्रह्मोवाच

अस्ति गुह्यतमं विप्र सर्वभूतोपकारकम् ।देव्यास्तु कवचं पुण्यं तच्छृणुष्व महामुने ॥ २ ॥

प्रथमं शैलपुत्री च द्वितीयं ब्रह्मचारिणी ।तृतीयं चन्द्रघण्टेति कूष्माण्डेति चतुर्थकम् ॥ ३ ॥

पञ्चमं स्कन्दमातेति षष्ठं कात्यायनीति च ।सप्तमं कालरात्री च महागौरीति चाष्टमम् ॥ ४ ॥

नवमं सिद्धिदात्री च नवदुर्गाः प्रकीर्तिताः ।उक्तान्येतानि नामानि ब्रह्मणैव महात्मना ॥ ५ ॥

अग्निना दह्यमानस्तु शत्रुमध्ये गतो रणे ।विषमे दुर्गमे चैव भयार्ताः शरणं गताः ॥ ६ ॥

न तेषां जायते किंचिदशुभं रणसंकटे ।नापदं तस्य पश्यामि शोकदुःखभयं न हि ॥ ७ ॥

यैस्तु भक्त्या स्मृता नूनं तेषां सिद्धि प्रजायते ।ये त्वां स्मरन्ति देवेशि रक्षसे तान्न संशयः ॥ ८ ॥

प्रेतसंस्था तु चामुण्डा वाराही महिषासना ।ऐन्द्री गजसमारुढ़ा वैष्णवी गरुड़ासना ॥ ९ ॥

माहेश्‍वरी वृषारुढ़ा कौमारी शिखिवाहना ।लक्ष्मीः पद्मासना देवी पद्महस्ता हरिप्रिया ॥ १०॥

श्वेतरूपधरा देवी ईश्वरी वृषवाहना ।ब्राह्मी हंससमारुढ़ा सर्वाभरणभूषिता ॥ ११ ॥

नानाभरणशोभाढ्या ।नानारत्नोपशोभिताः॥ १२ ॥

दृश्यन्ते रथमारुढ़ा देव्यः क्रोधसमाकुलाः ।शङ्खं चक्रं गदां शक्तिं हलं च मुसलायुधम् ॥ १३ ॥

खेटकं तोमरं चैव परशुं पाशमेव च ।कुन्तायुधं त्रिशूलं च शार्ङ्गमायुधमुत्तमम् ॥ १४ ॥

दैत्यानां देहनाशाय भक्तानाम अभ्याय च ।धारयन्त्यायुधानीत्थं देवानां च हिताय वै ॥ १५ ॥

महाबले महोत्साहे ।महाभयविनाशिनि ॥ १६ ॥

त्राहि मां देवि दुष्प्रेक्ष्ये शत्रूणां भयवर्धिनि ।प्राच्यां रक्षतु मामैन्द्री आग्नेय्यामग्निदेवता ॥ १७ ॥

दक्षिणेऽवतु वाराही नैर्ऋत्यां खड्गधारिणी ।प्रतीच्यां वारुणी रक्षेद् वायव्यां मृगवाहिनी ॥ १८ ॥

उदीच्यां रक्ष कौबेरी ऐशान्यां शूलधारिणी ।ऊर्ध्वं ब्रह्माणि मे रक्षेदधस्ताद् वैष्णवी तथा ॥ १९ ॥

एवं दश दिशो रक्षेच्चामुण्डा शववाहना ।जया मे चाग्रतः स्तातु विजयाः स्तातु पृष्ठतः ॥ २० ॥

अजिता वामपार्श्वे तु दक्षिणे चापराजिता ।शिखामेद्योतिनि रक्षेद उमा मूर्ध्नि व्यवस्थिता ॥ २१ ॥

मालाधरी ललाटे च भ्रुवौ रक्षेद् यशस्विनी ।त्रिनेत्रा च भ्रुवोर्मध्ये यमघण्टा च नासिके ॥ २२ ॥

शङ्खिनी चक्षुषोर्मध्ये श्रोत्रयोर्द्वारवासिनी ।कपोलौ कालिका रक्षेत्कर्णमूले तु शांकरी ॥ २३ ॥

नासिकायां सुगन्धा च उत्तरोष्ठे च चर्चिका ।अधरे चामृतकला जिह्वायां च सरस्वती ॥ २४ ॥

दन्तान् रक्षतु कौमारी कण्ठ मध्येतु चण्डिका ।घण्टिकां चित्रघण्टा च महामाया च तालुके ॥ २५ ॥

कामाक्षी चिबुकं रक्षेद् वाचं मे सर्वमङ्गला ।ग्रीवायां भद्रकाली च पृष्ठवंशे धनुर्धरी ॥ २६ ॥

नीलग्रीवा बहिःकण्ठे नलिकां नलकूबरी ।खड्ग्धारिन्यु भौ स्कन्धो बाहो मे वज्रधारिणी ॥ २७ ॥

हस्तयोर्दण्डिनी रक्षेदम्बिका चाङ्गुली स्त्था ।नखाञ्छूलेश्‍वरी रक्षेत्कुक्षौ रक्षे नलेश्‍वरी ॥ २८ ॥

स्तनौ रक्षेन्महालक्ष्मी मनः शोकविनाशिनी ।हृदय्म् ललिता देवी उदरम शूलधारिणी ॥ २९ ॥

नाभौ च कामिनी रक्षेद् ।गुह्यं गुह्येश्‍वरी तथा ॥ ३० ॥

कट्यां भगवती रक्षेज्जानुनी विन्ध्यवासिनी ।जङ्घे महाबला रक्षेत्सर्वकामप्रदायिनी ॥ ३१॥

गुल्फयोर्नारसिंही च पादौ च नित तेजसी ।पादाङ्गुलीषु श्री रक्षेत्पादाधस्तलवासिनी ॥ ३२ ॥

नखान् दंष्ट्राकराली च केशांश्‍चैवोर्ध्वकेशिनी ।रोमकूपेषु कौबेरी त्वचं वागीश्‍वरी तथा ॥ ३३ ॥

रक्तमज्जावसामांसान्यस्थिमेदांसि पार्वती ।अन्त्राणि कालरात्रिश्‍च पित्तं च मुकुटेश्‍वरी ॥ ३४ ॥

पद्मावती पद्मकोशे कफे चूड़ामणिस्तथा ।ज्वालामुखी नखज्वाला अभेद्या सर्वसंधिषु ॥ ३५ ॥

शुक्रं ब्रह्माणि मे रक्षेच्छायां छत्रेश्‍वरी तथा ।अहंकारं मनो बुद्धिं रक्षमे धर्मचारिणी ॥ ३६ ॥

प्राणापानौ तथा व्यानमुदानं च समानकम् ।वज्रहस्ता च मे रक्षेत्प्राणं कल्याणशोभना ॥ ३७॥

रसे रूपे च गन्धे च शब्दे स्पर्शे च योगिनी ।सत्त्वं रजस्तमश्चैव रक्षेन्नारायणी सदा ॥ ३८॥

आयू रक्षतु वाराही धर्मं रक्षतु वैष्णवी ।यशः कीर्तिं च लक्ष्मीं च धनं विद्यां च चक्रिणी ॥ ३९॥

गोत्रमिन्द्राणि मे रक्षेत्पशून्मे रक्ष चण्डिके ।पुत्रान् रक्षेन्महालक्ष्मीर्भार्यां रक्षतु भैरवी ॥ ४० ॥

पन्थानं सुपथा रक्षेन्मार्गं क्षेमकरी तथा ।राजद्वारे महालक्ष्मीर्विजया सर्वतः स्थिता ॥ ४१॥

रक्षाहीनं तु यत्स्थानं वर्जितं कवचेन तु ।तत्सर्वं रक्ष मे देवि जयन्ती पापनाशिनी ॥ ४२ ॥

पदमेकं न गच्छेत्तु यदीच्छेच्छुभमात्मनः ।कवचेनावृतो नित्यं यत्र यत्रार्थी गच्छति ॥ ४३ ॥

तत्र तत्रार्थलाभश्‍च विजयः सार्वकामिकः ।यं यं कामयते कामं तं तं प्राप्नोति निश्‍चितम् ।परमैश्‍वर्यमतुलं प्राप्स्यते भूतले पुमान् ॥ ४४ ॥

निर्भयो जायते मर्त्यः संग्रामेष्वपराजितः ।त्रैलोक्ये तु भवेत्पूज्यः कवचेनावृतः पुमान् ॥ ४५ ॥

इदं तु देव्याः कवचं देवानामपि दुर्लभम् ।यः पठेत्प्रयतो नित्यं त्रिसन्ध्यं श्रद्धयान्वितः ॥ ४६ ॥

दैवी कला भवेत्तस्य त्रैलोक्येपपराजितः ।जीवेद् वर्षशतं साग्रमपमृत्युविवर्जितः। ४७ ॥

नश्यन्ति व्याधयः सर्वे लूताविस्फोटकादयः ।स्थावरं जङ्गमं वापि कृत्रिमं चापि यद्विषम् ॥ ४८ ॥

आभिचाराणि सर्वाणि मन्त्रयन्त्राणि भूतले ।भूचराः खेचराश्‍चैव जलजाश्‍चोपदेशिकाः ॥ ४९ ॥

सहजाः कुलजा मालाः शाकिनी डाकिनी तथा ।अन्तरिक्षचरा घोरा डाकिन्यश्‍च महाबलाः ॥ ५० ॥

ग्रहभूतपिशाचाश्‍च यक्षगन्धर्वराक्षसाः ।ब्रह्मराक्षसवेतालाः कूष्माण्डा भैरवादयः ॥ ५१ ॥

नश्यन्ति दर्शनात्तस्य कवचे हृदि संस्थिते ।मानोन्नतिर्भवेद् राज्ञस्तेजोवृद्धिकरं परम् ॥ ५२ ॥

यशसा वर्धते सोऽपि कीर्तिमण्डितभूतले ।जपेत्सप्तशतीं चण्डीं कृत्वा तु कवचं पुरा ॥ ५३ ॥

यावद्भूमण्डलं धत्ते सशैलवनकाननम् ।तावत्तिष्ठति मेदिन्यां संततिः पुत्रपौत्रिकी ॥ ५४ ॥

देहान्ते परमं स्थानं यत्सुरैरपि दुर्लभम् ।प्राप्नोति पुरुषो नित्यं महामायाप्रसादतः ॥ ५५ ॥

लभते परमं रुपं शिवेन सह मोदते॥ॐ ॥ ५६ ॥

इति देव्याः कवचं सम्पूर्णम्।

279 views0 comments

Recent Posts

See All

Comments


bottom of page